। ललितापंचरत्नं ।
प्रातः स्मरामि ललितावदनारविंदं
बिंबाधरं पृथुलमौक्तिकशॊभिनासं ।
आकर्णदीर्घनयनं मणिकुंडलाढ्यं
मंदस्मितं मृगमदॊज्वलफालदॆशं ॥
प्रातर्भजामि ललिताभुजकल्पवल्लीं
रक्तांगुलीयलसदंगुलिपल्लवाढ्यां ।
माणिक्यहॆमवलयांगदशॊभमानां
पुड्रॆक्षुचापकुसुमॆषुसृणीर्ददानां ॥
प्रातर्नमामि ललिताचरणारविंदं
भक्तॆष्टदाननिरतं भवसिंधुपॊतं ।
पद्मासनादिसुरनायकपूजनीयं
पद्मांकुषद्वजसुदर्शनलांछनाढ्यं ॥
प्रातः स्तुवॆ परशिवां ललितां भवानीऒ
त्रय्यंतवॆद्यविभवां करुणानवद्यां ॥
विश्वस्य सृष्टिविलयस्थितिहॆतुभूतां
विद्यॆश्वरीं निगमवाङ्मनसातिदूरां ॥
प्रातर्नमामि ललितॆ तव पुण्यनाम
कामॆश्वरीति कमलॆति महेस्वरीति ।
श्रीशांभवीति जगतां जननी परॆति
वाग्दॆवतीति वचसा त्रिपुरॆश्वरीति ॥
यः श्लॊकपंचकमिदं ललितांबिकायाः
सौभाग्यदं सुललितं पठति प्रभातॆ ।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनंतकीर्तिं ॥
No comments:
Post a Comment