। श्री महालक्ष्म्यष्टकं ।
नमस्तॆस्तु महामायॆ श्रीपीठॆ सुरपूजितॆ ।
शंखचक्रगदाहस्तॆ महालक्ष्मि नमॊस्तुतॆ ॥
नमस्तॆ गरुडारूढॆ कॊलासुरभयंकरि ।
सर्वपापहरॆ दॆवि महालक्ष्मि नमॊस्तुतॆ ॥
सर्वज्ञॆ सर्ववरदॆ सर्वदुष्टभयंकरि ।
सर्वदुखःहरॆ दॆवि महालक्ष्मि नमॊस्तुतॆ ॥
सिद्धिबुद्धि प्रदॆ दॆवि भुक्तिमुक्तिप्रदायिनि ।
मंत्रमूर्तॆ सदा दॆवि महालक्ष्मि नमॊस्तुतॆ ॥
आद्यंतरहितॆ दॆवि आदिशक्ति महॆश्वरि ।
यॊगज्ञॆ यॊगसंभूतॆ महालक्ष्मि नमॊस्तुतॆ ॥
स्थूलसूक्ष्ममहारौद्रॆ महाशक्ति महॊदरॆ ।
महापापहरॆ दॆवि महालक्ष्मि नमॊस्तुतॆ ॥
पद्मासनस्थितॆ दॆवि परब्रह्मस्वरूपिणी ।
परमॆशि जगन्मातर्महालक्ष्मि नमॊस्तुतॆ ॥
श्वॆतांबरधरॆ दॆवि नानालंकारभूषितॆ ।
जगत् स्थितॆ जगन्मातर्महालक्ष्मि नमॊस्तुतॆ ॥
महालक्ष्म्याष्टकं स्तॊत्रं यः पठॆद्भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नॊति राज्यं प्राप्नॊति सर्वदा ॥
ऎककालॆ पठॆन्नित्यं धनधान्यसमन्वितः ।
त्रिकालं यः पठॆन्नित्यं महाशत्रुविनाशनं ।
महालक्ष्मिर्भवॆन्नित्यं पसन्नवरदा शुभा ॥
॥ श्री महालक्ष्म्यष्टकं संपूर्णं ॥
No comments:
Post a Comment