। श्री कृष्णाष्टकं ।
वसुदॆवसुतं दॆवं कंसचाणूरवर्धनं
दॆवकि परमानंदं कृष्णं वंदॆ जगद्गुरुं ॥१॥
आतसीपुश्पसंकाशं हारनूपुरशॊभितं
रत्नकंकणकॆयूरं कृष्णं वंदॆ जगद्गुरुं ॥२॥
कुटिलालकसंयुक्तं पूर्णचंद्रनिभाननं
विलसत्कुंडलधरं कृष्णं वंदॆ जगद्गुरुं ॥३॥
मंदारगंधसंयुक्तं चारुहासं चतुर्भुजं
बहिर्पिंछाचचूडांगं कृष्णं वंदॆ जगद्गुरुं ॥४॥
उत्पुल्लपद्मपात्राक्षं नीलजीमूतसन्निभं
यादवानां शिरॊरत्नं कृष्णं वंदॆ जगद्गुरुं ॥५॥
रुक्मिणिकॆळिसंयुक्तं पीतांबरसुशॊभितं
अवाप्ततुलसिगंधं कृष्णं वंदॆ जगद्गुरुं ॥६॥
गॊपिकानां कुचद्वंद्वं कुंकुमांकितवक्षसं
श्रीनिकॆतं महॆश्वासं कृष्णं वंदॆ जगद्गुरुं ॥७॥
श्रीवत्सांकं महॊरस्कं वनमालाविराजितं
शंखचक्रधरं दॆवं कृष्णं वंदॆ जगद्गुरुं ॥८॥
कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठॆत् ।
कॊटि जन्मकृतं पापं स्मरणॆन विनष्यति ॥
॥ इति श्री कृष्णाष्टकं ॥
No comments:
Post a Comment