॥ श्री गणाधिप पंचरत्नं ॥
सरागलॊकदुर्लभं विरागिलॊदपूजितं
सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम्
गिरागुरुं श्रियाहरिं जयंति यत्पदार्चकाः
नमामि तं गणाधिपं कृपापयः पयॊनिधिम् ॥१॥
गिरींद्रजामुखांबुप्रमॊददानभास्करं
करींद्रवक्त्रमानताघसंघवारणॊद्यतम्
सरीसृपॆशबद्धकुक्षिमाश्रयामि संततं
शरीरकांतिनिर्जिताब्जबंधुबालसंततिम् ॥२॥
शुकादिमौनिवंदितं गकारवाच्यमक्षरं
प्रकाममिष्टदायिनं सकामनम्रपंक्तयॆ
चकासतं चतुर्भुजैर्विकासिपद्मपूजितं
प्रकाशितात्मतत्त्वकं नमाम्यहं गणाधिपम् ॥३॥
नराधिपत्यदायकं स्वरादिलॊकदायकं
ज्वरादिरॊगवारकं निराकृतासुरव्रजम्
करांबुजॊल्लसत्सृणिं विकारशून्यमानसैः
हृदा सदा विभावितं मुदा नमामि विघ्नपम् ॥४॥
श्रमापनॊदनक्षमं समाहितांतरात्मनां
सुमादिभिस्सदार्चितं क्षमानिधिं गणाधिपम्
रमाधवादिपूजितं यमांतकात्मसंभवं
शमादिषड्गुणप्रदं नमाम्यहं विभूतयॆ ॥५॥
गणाधिपस्य पंचकं नृणामभीष्टदायकं
प्रणामपूर्वकं जनाः पठंति यॆ मुदायुताः
भवंति तॆ विदां पुरः प्रगीतवैभवाजवात्
चिरायुषॊधिकश्रियः सुसूनवॊ न संशयः ॥६॥
No comments:
Post a Comment