श्री गणॆशपंचरत्नस्तॊत्रं
मुदाकरात्तमॊदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलॊकरक्षकं ।
अनायकैकनायकं विनाशितॆभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकं ॥१॥
नतॆतरातिभीकरं नवॊदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरं ।
सुरॆश्वरं निधीश्वरं गजॆश्वरं गणॆश्वरं
महॆश्वरं तमाश्रयॆ परात्परं निरंतरं ॥२॥
समस्तलॊकशंकरं निरस्तदैत्यकुंजरं
दरॆतरॊदरं वरं वरॆभवक्त्रमक्षरं ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करॊमि भास्वरं ॥३॥
अकिंचनार्तिमार्जनं चिरंतनॊक्तिभाजनं
पुरारिपूर्वनंदनं सुरारिगर्वचर्वणं ।
प्रपंचनाशभीषणं धनंजयादिभूषणं
कपॊलदानवारणं भजॆ पुराणवारणं ॥४॥
नितांतकांतदंतकांतिमंतकांतकात्मजं
अचिंत्यरूपमंतहीनमंतरायकृंतनं ।
हृदंतरॆ निरंतरं वसंतमॆव यॊगिनां
तमॆकदंतमॆव तं विचिंतयामि संततं ॥५॥
महागणॆशपंचरत्नमादरॆण यॊन्वहं
प्रजल्पति प्रभातकॆ हृदि स्मरन् गणॆश्वरं ।
अरॊगतामदॊषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सॊचिरात् ॥६॥
No comments:
Post a Comment