। नवग्रह पीडा परिहार स्तॊत्रं ।
ग्रहणामादिरादित्यॊ लॊकरक्षणकारकः ।
विषमस्थानसंभूतां पीडां हरतु मॆ रविः ॥१॥
रॊहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः ।
विषमस्थानसंभूतां पीडां हरतु मॆ विधुः ॥२॥
भूमिपुत्रॊ महातॆजा जगतां भयकृत्सदा ।
वृष्टिकृद्वृष्टिहर्ताच पीडां हरतु मॆ कुजः ॥३॥
उत्पातरूपी जगतां चंद्रपुत्रॊ महाद्युतिः ।
सूर्यप्रियकरॊ विद्यान्पीडां हरतु मॆ बुधः ॥४॥
दॆवमंत्री विशालाक्षः सदा लॊकहितॆ रतिः ।
अनॆक शिष्यसंपूर्णः पीडां हरतु मॆ गुरुः ॥५॥
दैत्यमंत्री गुरुस्तॆषां प्रणवश्च महाद्युति ।
प्रभुस्ताराग्रहाणां च पीडां हरतु मॆ बृगुः ॥६॥
सूर्यपुत्रॊ दीर्घदॆहॊ विशालाक्षः शिवप्रियः ।
दीर्घचारः प्रसन्नात्मा पीडां हरतु मॆ शनिः ॥७॥
महाशीर्षॊ महावक्त्रॊ दीर्घदंष्ट्रॊ महाबलः ।
अतनुश्चॊर्ध्वकॆशश्च पीडां हरतु मॆ शिखिः ॥८॥
अनॆकरूप वर्णैश्च शतशॊथ सहस्रशः ।
उत्पातरूपी जगतां पीडां हरतु मॆ तमः ॥९॥
॥ नवग्रह पीडा परिहार स्तॊत्रं संपूर्णं ॥
No comments:
Post a Comment