Sunday, 16 December 2018

Navagraha Stotram - Sanskrit



। श्री नवग्रह स्तॊत्रं ।

जपाकुसुम संकाशं काश्यपॆयं महाद्युतिं
तमॊरिं सर्वपापघ्नं प्रणतॊस्मि दिवाकरं ॥१॥

दधिशंख तुषाराभं क्षीरॊदार्णव संभवं
नमामि शशिनं सॊमं शंभॊर्मुकुट भूषणं ॥२॥

धरणिगर्भसंभूतं विद्युत्कांति समप्रभं
कुमारं शक्तिहस्तं च मंगळं प्रणमाम्यहं ॥३॥

प्रियंगुकलिकाश्यामं रूपॆणाप्रतिमं बुधं
स्ॐयं स्ॐयगुणॊपॆतं तं बुधं प्रणमाम्यहं ॥४॥

दॆवानं च ऋषीणां च गुरुं कांचनसन्निभं
बुद्धिभूतं त्रिलॊकॆशं तं नमामि बृहस्पतिं ॥५॥

हिमकुंद मृणालाभं दैत्यानां परमं गुरुं
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहं ॥६॥

नीलांजनसमाभासं रविपुत्रं यमाग्रजं
छायामार्तांड संभूतं तं समामि शनैश्चरं ॥७॥

अर्धकार्यं महावीर्यं चंद्रादित्यविमर्दनं
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहं ॥८॥

पलाशपुश्पसंकाशं तारकाग्रहमस्तकं
रौद्रं रौद्रात्मकं घॊरं तं कॆतुं प्रणमाम्यहं ॥९॥

इति व्यासमूखॊद्गीतं यः पठॆत् सुसमाहितः
दिवावा यदिवा रात्रौ विघ्नशांतिर्भविष्यति

नरनारिनृपाणां च भवॆत् दुस्वप्ननाशनं
ऐश्वर्यमतुलां तॆषां आरॊग्यं पुष्टिवर्धनं

गृहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः
ताः सर्वाः प्रशमं यांति व्यासॊ भ्रूतॆ न संशयः

॥ इति व्यास विरचित नवग्रह स्तॊत्र संपूर्णं ॥

No comments:

Post a Comment

Sri Srinivasa Mangalam - Sanskrit

। श्री श्रीनिवास मंगळं । सर्वमंगलसंभूतिस्थानवॆंकटभूधरॆ । नित्य क्लृप्त निवासाय श्रीनिवासाय मं...